Skip to content

Class 9th Sanskrit Half Yearly Question Paper 2026-27 / Class 9th Sanskrit Ardhvaarshik Paper 2026-27 / कक्षा 9 संस्कृत 2026-27

Share this post

अर्धवार्षिक परीक्षा 2026-27

कक्षा-9
विषय-संस्कृत
समय : 03 घंटे ———————————————————————————————————————–पूर्णांक : 75


निर्देशाः

  1. सर्वे प्रश्नाः अनिवार्याः सन्ति।
  2. प्रश्नानां सम्मुखे अंकाः प्रदत्ताः।
  3. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेनैव लेखनीयानि।

प्र. 1. उचितं विकल्पं चित्वा लिखत् — (1×6=6)

(i) ‘अनु’ उपसर्गस्य उदाहरणम् अस्ति—
(अ) अवगच्छति (ब) अनुगच्छति (स) गच्छति (द) उपगच्छति

(ii) ‘राजपुरुषः’ पदे उपसर्गः अस्ति—
(अ) आ (ब) प्रति (स) जय (द) यते

(iii) ‘गम्’ धातोः रूपम् अस्ति—
(अ) पठति (ब) गच्छति (स) हसति (द) वदति

(iv) लङ् लकारस्य उदाहरणम् अस्ति—
(अ) गच्छति (ब) भवेत् (स) भविष्यति (द) अभवत्

(v) ‘दृश्’ धातोः उदाहरणम् अस्ति—
(अ) हसति (ब) गच्छति (स) पश्यति (द) भवति

(vi) वर्तमानकाले कः लकारः भवति?
(अ) लङ् (ब) लट् (स) लृट् (द) लोट्


प्र. 2. कोष्ठकात् चित्वा रिक्तस्थानानि पूरयत् — (1×6=6)

(i) ‘रमेशः कुत्र गच्छति’ इत्यत्र अव्ययम् …………….. अस्ति।
(गच्छति / कुत्र)

(ii) ‘सः तत्र क्रीडति’ इत्यत्र अव्ययम् …………….. अस्ति।
(तत्र / क्रीडति)

(iii) बालिकाशब्दस्य चतुर्थी-विभक्तेः एकवचनम् …………….. अस्ति।
(बालिकायै / बालिकायाः)

(iv) फलशब्दस्य प्रथमा-विभक्तेः बहुवचनम् …………….. अस्ति।
(फलानि / फलम्)

(v) ‘रामाय’ पदे विभक्तिः अस्ति।
(तृतीया / चतुर्थी)

(vi) रामशब्दस्य षष्ठी-विभक्तेः एकवचनम् …………….. अस्ति।
(रामस्य / रामाणाम्)


प्र. 3. उचितं युग्ममेलनं कुरुत् — (1×6=6)

(अ)(ब)
(i) पठाक्ति(i) अव्ययीभावसमासः
(ii) राजपुरुषः(ii) वृक्षस्योपरि
(iii) वृक्षस्य + उपरि(iii) यण्सन्धिः
(iv) च + एकाकिनी(iv) तत्पुरुषः
(v) इत्युक्त्वा(v) बहुव्रीहिः
(vi) पीताम्बरः(vi) चैकाकिनी

प्र. 4. एकपदेन उत्तरं लिखत् — (1×6=6)

(i) कुत्र दरिद्रता न भवेत्?

(ii) वृक्षाः स्वयं कानि न खादन्ति?

(iii) सरसाः रसालाः कदा लसन्ति?

(iv) ‘गत्वा’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?

(v) ‘अध्यापिका’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?

(vi) ‘पठितुम्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?


प्र. 5. शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत् — (1×6=6)

(i) ‘निर्धना वृद्धा’ इत्यत्र निर्धना विशेषणं पदम् अस्ति।

(ii) ‘खिन्नः बालः’ इत्यत्र बालः विशेष्यपदम् नास्ति।

(iii) ‘दानवाय’ पदस्य विलोमपदं मानवाय अस्ति।

(iv) ‘शरीरम्’ पदस्य पर्यायपदं तनुः अस्ति।

(v) ‘स्त्री’ पदस्य पर्यायपदं नारी नास्ति।

(vi) ‘निर्मलम्’ पदस्य विलोमपदं समलम् नास्ति।


प्र. 6. परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति? (2)

अथवा

सर्वदा दत्ता कस्य हितं कीदृशी आसीत्?


प्र. 7. बालिकया काकः न दृष्टः आसीत्? (2)

अथवा

मल्लिका चन्दनश्च मासपर्यन्तं धेनोः सेवां कथम् अकुरुताम्?


प्र. 8. तपोदत्तः विद्याग्रहणाय कुत्र गतः? (2)

अथवा

बालः कदा क्रीडितुम् अगच्छत्?


प्र. 9. ‘जटायो! पश्य’ इति का वदति? (2)

अथवा

वसन्ते किं भवति?


प्र. 10. प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति? (2)

अथवा

यत्नेन किं रक्षेत् वित्तं वा?


प्र. 11. रेखाङ्कितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत् — (कोऽपि द्वौ) (2)

(i) ग्रामे निर्धना स्त्रीः अवसत्।

(ii) मोदकानि पूजानिमित्तानि रचितानि आसन्।

(iii) अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति।


प्र. 12. अधोलिखितानि वाक्यानि कः कं प्रति कथयति — (कोऽपि द्वौ) (2)

(i) काकान् मा भक्ष्य।

(ii) पूर्वं प्रातराशः क्रियताम्।

(iii) जलप्रवाहे स्थास्यन्ति किम्?


प्र. 13. वाच्य-परिवर्तनं कुरुत् — (कोऽपि द्वौ) (2)

(i) छत्रेण हस्यते।
(कर्तृवाच्य)

(ii) अहं पुस्तकं पठामि।
(कर्मवाच्य)

(iii) रमा फलम् खादति।
(कर्मवाच्य)


प्र. 14. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् एकं सुभाषितं लिखत्। (2)


प्र. 15. अधोलिखितेषु अशुद्धवाक्येषु शुद्धं कुरुत् — (कोऽपि द्वौ) (2)

(i) रामः विद्यालयं गच्छन्ति।

(ii) शिवं नमः।

(iii) सः पठामि।


प्र. 16. प्रदत्तैः पदैः रिक्तस्थानानि पूरयत् — (कोऽपि चत्वारः) (1/2×4=2)

(सरसा, घट, नद्याः, पर्वतात्)

(क) कुम्भकारः …………….. रचयति।

(ख) नद्याः …………….. निस्सरन्ति।

(ग) ईश्वरः …………….. त्रायते।

(घ) …………….. सर्वे तुष्यन्ति जन्तवः।

(ङ) आत्मनः प्रतिकूलानि …………….. न समाचरेत्।

(च) वसन्ते लसन्ति …………….. रसालाः।


प्र. 17. प्रदत्तवाक्यैः घटनाक्रमानुसारं लिखत् — (1/2×4=2)

(i) तस्याः एका दुहिता विनम्रा मनोहरा च आसीत्।

(ii) सूर्योदयोत्तरं ग्रामाद् बहिः पित्रा त्वया आगन्तव्यम्।

(iii) एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिदेश।

(iv) पुरा कस्मिंश्चित् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्।


प्र. 18. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत्। (3)

नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तं च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्—“तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते।” स्वर्णपक्षः काकः प्रोवाच—“मा शुचः। सूर्योदयात् प्राक् ग्रामाद् बहिः पिप्पलवृक्षम् अनु त्वया आगन्तव्यम्। अहं तु ते तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।

(क) कः तण्डुलमूल्यं दास्यति?

(ख) बालिका रोदितुमारब्धा?

(ग) स्वर्णपक्षः काकः किं प्रोवाच?

अथवा

भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलब्धमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्। सः अचिन्तयत्—“विरमन्तु एते वराकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि। सम्प्रति विद्यालयं गत्वा भूयः क्रुद्धस्य उपाध्यायस्य मुखं द्रष्टुं नैव इच्छामि।”

(क) बालकस्य वयस्याः किमर्थं त्वरमाणाः अभवन्?

(ख) सः किम् अचिन्तयत्?

(ग) बालः एकाकी एव कुत्र प्राविशत्?


प्र. 19. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत्। (3)

वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

(क) वित्ततः क्षीणः नरः कीदृशः भवति?

(ख) वृत्ततः क्षीणः कीदृशः भवति?

अथवा

पिबन्ति नद्यः स्वयमेव नाद्यः।
स्वयं न खादन्ति वृक्षाः।
नादन्ति सस्यं बहु वारिवाहाः।
परोपकाराय सतां विभूतयः॥

(क) सतां विभूतयः किमर्थं भवन्ति?

(ख) के स्वयमेव जलं न पिबन्ति?

(ग) वारिवाहाः किं न कुर्वन्ति?


प्र. 20. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत्। (3)

पुरुषः — भो तपस्विन्! कथं माम् अवरोधं करोषि? प्रयत्नेन किं न सिद्धं भवति? का आवश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।

तपोदत्तः — आश्चर्यम्! किं सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?

पुरुषः — (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोदुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।

(क) पुरुषः काभिः एव सेतोः निर्माणं करोति?

(ख) केन सर्वं सिद्धं भवति?

(ग) पुरुषः कस्मिन् न विश्वसिति?

अथवा

“मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति।” ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।

चन्दनः — अहा! सुगन्धस्तु मनोहरः। (विलोक्य) अये मोदकानि सन्ति! भस्म भूत्वा आस्वादयामि तावत्। (मोदकं गृहीतुम् इच्छति)

मल्लिका — (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि।

(क) मल्लिका मन्दस्वरेण किं करोति?

(ख) “अहा! सुगन्धस्तु मनोहरः” इति कः अवदत्?

(ग) सुगन्धः कीदृशः अस्ति?


प्र. 21. अधोलिखितम् अपठितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत्। (4)

अस्माकं देशस्य नाम “भारतवर्षम्” इति अस्ति। पुरा अस्माकं देशे भरतनामा दुष्यन्तपुत्रः महाप्रतापी राजा बभूव। तस्यैव सम्बन्धात् अस्य देशस्य नाम अपि “भारतम्” इति प्रसिद्धम्। अस्मदीयः देशः प्रकृति-सम्पन्नः अस्ति। अत्र षड् ऋतवः यथासमयं च आगत्य भारतं विविधाभिः सुषमाभिः भूषयन्ति। गङ्गा-यमुनाद्यनेकाः नद्यः विविधेभ्यः स्थानेभ्यः निर्गत्य अस्य पावनत्वम् आपादयन्ति। अस्य भूमिः उर्वरा अस्ति। सर्वविधम् अन्नम् अत्र उपद्यते। अस्माकं देशः विश्वगुरुः अस्ति। अयं सभ्यतायाः प्रकाशम् अन्येभ्यः देशेभ्यः दत्तवान्। “भारतवर्षम्” अनेकानां भाषा-वेश-धर्म-संस्कृति-परम्पराणां देशः अस्ति।

(क) भारतवर्षम् कीदृशः देशः अस्ति?

(ख) अस्माकं देशस्य नाम किम् अस्ति?

(ग) कस्य सम्बन्धाद् अस्य देशस्य नाम “भारत” प्रसिद्धम् अभवत्?


प्र. 22. स्वप्राचार्यस्य कृते अवकाशार्थं प्रार्थना पत्रं लिखत्। (4)

अथवा

अग्रजस्य विवाहे आमन्त्रयितुं स्वमित्रं प्रति पत्रं लिखत्।


प्र. 23. अधोलिखितेषु एकं विषयं स्वीकृत्य विंशत्यधिक-शतशब्देषु (120) संस्कृतभाषायां निबन्धं लिखत्। (4)

(क) संस्कृतभाषायाः महत्त्वम्

(ख) पर्यावरणम्

(ग) मम प्रियकविः

(घ) अस्माकं भारत-देशः


Class 9th Hindi Half Yearly Question paper 2026-27

Class 9th English Half Yearly Question Paper 2026-27

Class 9th Sanskrit Half Yearly Question Paper 2026-27

Class 9th Science Half Yearly Question Paper 2026-27

Class 9th Social Science Half Yearly Question Paper 2026-27

Class 9th Maths Half Yearly Question Paper 2026-27


Share this post

1 thought on “Class 9th Sanskrit Half Yearly Question Paper 2026-27 / Class 9th Sanskrit Ardhvaarshik Paper 2026-27 / कक्षा 9 संस्कृत 2026-27”

  1. Pingback: class 9th Hindi half yearly question paper 2026-27 Pdf Download / class 9th Hindi ardhvaarshik paper 2026-27 / कक्षा 9 हिंदी अर्धवार्षिक पेपर 2026-27 – rajeshsir.co.in

Leave a Reply

Your email address will not be published. Required fields are marked *